Tuesday, October 13, 2015

|| हरिः ॐ तत्सत्! सुप्रभातम् ||


     

हरिः ॐ तत्सत्!  सुप्रभातम्।
॥ ॐ नमश्चण्डकायै नमः॥
सर्वेभ्यो भक्तेभ्यो नमो नमः।
सर्वमङ्गलमङ्ल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोSस्तुते॥

भवतां सर्वेषां कृते जगज्जननीं भगवतीं श्रीदुर्गादेवीं प्रति प्रार्थयामि यद्भगवत्यनुग्रहात्सर्वे जनाः सदैव सानन्दं धर्मानुसारेण प्रसन्नो भूत्वा जीवनं यापयन्तु।
" देवि पूजि पद कमल तुम्हारे।
सुर नर मुनि सब होहिं सुखारे॥ "
॥ श्रीदुर्गादेव्यै नमः ॥
अमरवाणी विजयताम्

[13/10 11:39 PM] Pandit Mangleshwar Tripadhi: या माता करणी खलौघहरणी शूलं दधाना करे,
भव्ये भाति सुमन्दिरे शुभतमे श्रीदेशनोकस्थले।
तन्वाना करुणापटं भगवती भक्तेषु सा वत्सला,
कल्याणं कुरुतात्सदास्य जगतो बुद्धिन्तथा निर्मलाम्।।
***
***मत्कर्तृके श्रीकरणीचरितामृताख्ये महाकाव्ये
मङ्गलपद्यम्****

पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830  



No comments:

Post a Comment