Tuesday, October 13, 2015

॥ ॐ नमश्चण्डिकायै ॥

     

॥ ॐ नमश्चण्डिकायै ॥

दुर्गे स्मृता हरसि भीतमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता॥
देवि पूजि पद कमल तुम्हारे।
सुर नर मुनि सब होहिं सुखारे॥
यथा महापुरुषेभ्यो जनेभ्यो मया श्रुतं स्वल्पमत्यानुसारेण्यद्यापि भवतां सर्वेषां प्रीतये जीवन्मुक्तस्य मनुष्यस्य  लक्षणानि मया लिख्यते।

 महापुरुषाः कथयन्ति, जगति जीवन्नेव देहेन्द्रियादितादात्म्यान्मुक्तो मनुष्य एव जीवन्मक्तः कथ्यते। अत एव जीवन्मुक्तः पूर्वोपाधिगुणान् देहमन आदीनामुपाधीनां कर्तृत्वभोक्तृत्वादीन् गुणान्सन्त्यज्य सच्चिदानन्दरूपं ब्रह्म सततं भजते इति स्वयमपि तादृशं ब्रह्मैव भवति। यथा भ्रमरीकीटवत्। कोSपि कीटो यथा भ्रमरो निरन्तरं भ्रमरध्यानेन तद्वदेवभवति। जीवन्मुक्तोSपि ब्रह्मैव भवत्यनेन सिद्धान्तेन। श्रीमद्भागवतेSपि तद्विषये कथितम् - " कीटः पेशस्कृतः ध्यायन् कुड्यां तेन प्रवेशितः। याति तत्समात्मतां राजन्पूर्वमसन्त्यजन्॥"
(११-९-२३)
श्रीरामचरितमानसेSपि पूज्यपादाः भगवद्भक्तिभूषणाः गोस्वामिनः तुलसीदासमहाभागाः लिखितवन्तो यत् महर्षिवाल्मीकिमहाभागाः भगवतः श्रीरामस्य महिमण्डिनं कुर्वन्तः कथयन्ति--
" सोइ जानइ जेहि देहु जनाई।
जानत तुम्हहि तुम्हइ होइ जाई॥"
(अयोध्याकाण्ड-१२६/३)
श्रीदुर्गादेवीं प्रति प्रार्थयामि यद्भवन्तः सर्वे जनाः तदनुग्रहात्सर्विधिप्रसन्नाः भूत्वा धर्मानुगामिनो भवन्तु।
अमरवाणी विजयताम्


पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830 

No comments:

Post a Comment