जगज्जननी माँ सीता
----------------
----------------
वंदे विदेहतनया पद पुण्डरीकं कैशोर-सौरभ-समाहृत-योगि-चित्तं।
हन्तुं त्रितापमनिशं मुनि-हंस-सेव्यं सन्मानसालि परिपीत-पराग-पुञ्जम्॥
हन्तुं त्रितापमनिशं मुनि-हंस-सेव्यं सन्मानसालि परिपीत-पराग-पुञ्जम्॥
सीतायाः पात्रं रामायणपात्रप्रपञ्चे विशिष्टं स्थानं भजते ।अयोनिजा
सीता । श्रीरामचन्द्रस्य धर्मपत्नी । जनकमहाराजस्य पुत्री । कुशलवयोः माता ।
सीता । श्रीरामचन्द्रस्य धर्मपत्नी । जनकमहाराजस्य पुत्री । कुशलवयोः माता ।
जननम्
------
------
मिथिलायाः राजा जनकः सन्तानप्राप्त्यर्थं यज्ञमकरोत् । एकवारं क्षेत्रकर्षणसमये एकः शिशुः प्राप्तः । जनकमहाराजः तं शिशुं गृहं नीत्वा पालितवान् । तस्याः पुत्र्याः सीता इति नामकरणं कृतम् । जानकी , मैथिली इत्यादीनि तस्याः नामान्तराणि ।
सीतापरिणयः
-----------
-----------
जनकमहाराजेन सीतायाः स्वयंवरः आयोजितः । शिवधनुषः ज्याबन्धनमेव स्वयंवरस्य पन्थाह्वानम् आसीत् । रावणादयः वीराः पराजिताः अभूवन् । श्रीरामः जित्वा सीतां परिणीतवान् ।
वनगमनम्
--------
सीतायाः विवाहानन्तरं दशरथः यदा श्रीरामस्य राज्याभिषेकं कर्तुम्
उद्युक्तः । तदा मन्थरायाः कौटिल्यात् कैकेयी रामस्य वनगमनार्थम् आग्रहं कृतवती । तदा पितृवाक्यं परिपालयितुं रामः वनं गन्तुमुद्युक्तः । तदा सीतापि रामेण सह वनं प्रति गन्तुं सिद्धा । परं रामः निराकृतवान् । तथापि राम एव परमं दैवतम् इति मत्वा सीता रामेण सह वनं गन्तुम् आग्रहं कृतवती ।रामः अङ्गीकृतवान् ।
सीता रामेण सह वनं गतवती। कष्टमपि सुखं मत्वा रामेण सह वनवासमकरोत् ।

सीतापहरणम्
-----------
-----------
वनवाससन्दर्भे पञ्चवट्यां रामलक्ष्मणः।लक्ष्मणसीतादयः कुटीरे उषितवन्तौ । तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति ।परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् । सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति ।क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् । मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् । मारीचःसुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत् । हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती । रामस्य समीपे तं मृगम् आनेतुं सूचयति ।परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति । परं सीता हठेन तं मृगम् आनेतुं वदति ।सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् । किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते ।
तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति । किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति ।तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति । तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरच्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान् । तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान् ।सीता भिक्षां दातुं कुटीरात् बहिरागता।
तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान् ।
सीतायाः पातिव्रत्यम्
सीता पतिव्रतासु अन्यतमा।रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् । रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति । रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति ।

सौन्दर्यसारसर्वस्वं माधुर्यगुणबृंहितम् ।
ब्रह्मैकमद्वितीयं तद् तत्वमेकं
द्विधाकृतम् ।।
वेदादिशास्त्रसंवेद्यं सीतारामस्वरूपकम्।
सरहस्यं सतां सेव्यमद्भुतं प्रणमाम्यहम्॥
ब्रह्मैकमद्वितीयं तद् तत्वमेकं
द्विधाकृतम् ।।
वेदादिशास्त्रसंवेद्यं सीतारामस्वरूपकम्।
सरहस्यं सतां सेव्यमद्भुतं प्रणमाम्यहम्॥
–जय श्रीमन्नारायण।
" वन्दे वाणी विनायकौ" समूहात् संकलितम्|
" वन्दे वाणी विनायकौ" समूहात् संकलितम्|
पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830
से.1वाशी नवी मुम्बई
8828347830
No comments:
Post a Comment