Friday, October 9, 2015

|| सन्देहदग्धमनस्काः एवमेव खलु चिन्तयन्ति ||



सन्देहदग्धमनस्काः एवमेव खलु चिन्तयन्ति
--------------------------
सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
धत्से यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया ।
श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितम्
मा स्त्रीलम्पट मा स्पृशेति गदितो गौर्या हरः पातु वः ।।
शिवस्य पत्नी पार्वती । सा पतिव्यवहारे स्त्रीलम्पटत्वं
पश्यति । सा पतिं वदति - 'जनानां पुरतः एव बद्धाञ्जलिः सन् त्वं सन्ध्यां याचसे । नदीं गङ्गां निर्लज्जं शिरसि धरसि । अमृतमन्थनावसरे विष्णुना लक्ष्मीः प्राप्ता इत्यतः विषण्णमनस्कः सन् त्वं विषं पीतवान् । एवं तव स्त्रीलम्पटत्वं नितराम् असह्यम् । अतः मां मा स्पृश' इति ।
वस्तुतः तु शिवेन सन्ध्या (स्त्री) नमस्कृता कर्तव्यबुद्ध्या । लोकोपकाराय एव तेन गङ्गा (स्त्री) शिरसि धृता । घोरं विषम् अपि तदर्थम् एव निर्भीति पीतम् । किन्तु पार्वती अत्र सर्वत्र स्त्रीलम्पटत्वं पश्यति !! सन्देहदग्धमनस्काः एवमेव खलु चिन्तयन्ति ?
           –जय श्रीमन्नारायण।

पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
  8828347830  

No comments:

Post a Comment