Monday, October 12, 2015

|| अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं पप्रच्छ ||

     

अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं पप्रच्छ। 
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकं भस्म सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥
अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते।
रौद्री घोरा या तैजसी तनूः।
सोमः शक्त्यमृतमयः शक्तिकरी तनूः।
अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम्।
स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी॥१॥ 
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका।
तथैव रसशक्तिश्च सोमात्मा चानलात्मिका॥२॥ 
वैद्युदादिमयं तेजो मधुरादिमयो रसः।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम्॥३॥ 
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते।
अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत्॥४॥ 
ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः।
ताभ्यां संपुटितस्तस्माच्छश्वद्विश्वमिदं जगत्॥५॥ 
अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम्।
यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः॥६॥ 
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा।
यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत्॥७॥ 
आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः॥८॥ 
शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः।
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन॥९॥ 
असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम्।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः॥१०॥
यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना।
अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते॥११॥ 
अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते॥१२॥ 
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः।
शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते॥१३॥ 
अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम्।
शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः॥१४॥
यो वेद गहनं गुह्यं पावनं च तथोदितम्।
अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते॥१५॥ 
शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः।
प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत इति॥१६॥
पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830 

No comments:

Post a Comment