Saturday, November 21, 2015

|| पार्वती परमेश्वरस्य प्रेयसी ||



     
पार्वती परमेश्वरस्य प्रेयसी ।
तयो: प्रीतिः निरतिशया ।
एकदा परशिवः एकाकी बहिः गत्वा गृहं प्रति निवर्तते ।
आगतं हृदयवल्लभम् अगजा गवाक्षेणापश्यत् ।
तदानीं द्वारं पिहितम् आसीत् ।
उद्घाटनार्थं शङ्करः कवाटम् अङ्गुल्या प्रहरति ।
तदा गिरिजा सरससँल्लापेन तं पराजेतुम् इच्छन्ती भणति ।
पार्वती -अङ्गुल्या कवाटं कः प्रहरति?
शिवः - अहमस्मि, प्रिये ।
पार्वती - कः त्वम्?
शिव: - अहं शूली ।
पार्वती - किम्? किम्? किं ते शूलरोगः वर्तते? नाहं वैद्या ।
शिव: - प्रियतमे ! अहं नीलकण्ठः।
पार्वती - किम्? त्वं नीलकण्ठः । तर्हि एकां केकां कुरु ।
शिव: - प्रेयसि ! अहं पशुपतिः अस्मि ।
पार्वती - अहो पशुपतिः । कुत्र ते शृङ्गे ?
शिव: - अये, नाहं वृषभः । अहं स्थाणु: अस्मि ।
पार्वती - यदि त्वं स्थाणुः कथं भाषसे ? स्थाणुः नाम शुष्कः तरुः ।
शिव: - अहं शिवायाः पति: अस्मि ।
पार्वती – किम् ? किम् ? शृगाल्याः पति: शृगालोऽसि । वनं याहि । अत्र किं कार्यम् अस्ति?
एवं पार्वती शब्दच्छलेन शिवं पराजयत । तौ जगदादिमौ दम्पती अस्मान् पाताम् ।
नम: पार्वतीपतये हर हर महादेव ।

पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830  

No comments:

Post a Comment