Saturday, April 9, 2016

शैवो वा वैष्णवो वाऽपि यो वास्यादन्यपूजक: ।
सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुख: ॥
     (शिवलिङ्गम्)
एकादश्यां यथा उपवासस्य प्रामुख्यं तथैव शिवरात्र्यामपि उपवास: प्रामुख्यं भजते ।

अस्यामुपवास: प्रधानं न स्नानेन न वस्त्रेण न धूपेन न चार्चया ।
तुष्यामि न तथा पुष्पै: यथा तत्रोपवासत: ।
यो मां जागरयते रात्रिं मनुज: स्वर्गमारुहेत् ॥ इति ।
शिवरात्र्यां य: उपवासं जागरणं च ज्ञात्वा अज्ञात्वा आचरति स: स्वर्गं गच्छति इति वदन्ति शास्त्राणि । सामन्यतया देवतापूजार्थं दिवासमय: एव प्रशस्त: । किन्तु शिवरात्रिपर्वणि तस्य नामानुगुणं रात्रिरेव प्रशस्तकाल: पूजार्थम् । सम्पूर्णम् उपवासं कृत्वा रात्रौ जागरणम् आचरणीयम् । रात्रौ एव पूजा करणीया इति । कलियुगे चतुर्दश्यां रात्रौ केवलं भूमौ सञ्चरन् समस्तस्थावरजङ्गमेषु सङ्क्रमिष्यामि । समग्रे वर्षे कृतं पापं परिहरामि । दिवासमये तद्दिने एवं महिमा न भवति इति महेश्वर: एव अवदत् इति शास्त्रवाक्यम् अस्ति ।
सर्वे भवन्तु सुखिनः।

No comments:

Post a Comment