





सुप्रभातम् सीरष्वजो नृगगयौ शिविरन्तिदेवो
चाण्डालकर्मणिरतो नहुषात्मजश्च।
धर्मानुपालनपरो विनतोऽम्बरीषः
सर्वे दिशन्तु मम मङ्गलसुप्रभातम्।।
अत्रिर्मरीचिपुलहौ क्रतुरङ्गिराश्च
ब्रह्मर्षिगौरवधरो मतिमान् वशिष्ठः।
पूतः पुलस्त्यसुकृती ॠषयश्च सप्त
कुर्वन्तु मे सुभगमङ्गलसुप्रभातम्।।
कुन्ती विदेहतनया सुभगा सुनीतिः
पत्नी हिरण्यकशिपोरमघा कयाधूः।
श्रीराघवेन्द्रजननी विदुला यशोदा
अम्बा दिशन्तु मम सप्त शुभप्रभातम्।।
गौरी वसिष्ठगृहिणी घटजप्रिया च
देवी शची सुमहिताऽत्रिगृहेऽनसूया।
स्वाहाऽदितिश्च दयितव्रतकेन्द्रभूताः
कुर्वन्तु मे रुचिरमङ्गलसुप्रभातम्।।
वाल्मीकिपाणिनिपराशरनन्दनाश्च
बोधयनो वररूचिः प्रथमे कवीन्द्राः।
गर्गोऽथ भासमुनिरित्थमिमे च सप्त
कुर्वन्तु मे सुभगमङ्गलसुप्रभातम्।।
पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830
से.1वाशी नवी मुम्बई
8828347830
No comments:
Post a Comment