Wednesday, December 30, 2015

सुप्रभातम् नमो नमः   🙏🏻🌹
वाक्याभ्यास: 

१ स: देवम् अर्चितवान्।
तेन देवः अर्चित: ‌।

२ सा देवम् अर्चितवती।
तया देवः अर्चित:।

३ स: देवीम् अर्चितवान्।
तेन देवी अर्चिता।

४ सा देवीं अर्चितवती।
तया देवी अर्चिता।

५ अहं कथां स्मृतवान् \स्मृतवती।
मया कथा स्मृता।

६ शीला गीतं गीतवती।
शीलया गीतं गीतम्।

७ किशोर: वृक्षं दृष्टवान्।
किशोरेण वृक्षः दृष्टः।

८ छात्राः पाठान् अवगतवन्त:।
छात्रैः पाठाः अवगता:।

९ बालका: चित्रपटं दृष्टवन्तः।
बालकै: चित्रपटं दृष्टम्।

१० पुरुषाः पात्राणि प्रक्षालितवन्त:।
पुरुषैः पात्राणि प्रक्षालितानि ‌।

No comments:

Post a Comment