सुप्रभातम् नमो नमः 🙏🏻🌹
वाक्याभ्यास:
१ स: देवम् अर्चितवान्।
तेन देवः अर्चित: ।
२ सा देवम् अर्चितवती।
तया देवः अर्चित:।
३ स: देवीम् अर्चितवान्।
तेन देवी अर्चिता।
४ सा देवीं अर्चितवती।
तया देवी अर्चिता।
५ अहं कथां स्मृतवान् \स्मृतवती।
मया कथा स्मृता।
६ शीला गीतं गीतवती।
शीलया गीतं गीतम्।
७ किशोर: वृक्षं दृष्टवान्।
किशोरेण वृक्षः दृष्टः।
८ छात्राः पाठान् अवगतवन्त:।
छात्रैः पाठाः अवगता:।
९ बालका: चित्रपटं दृष्टवन्तः।
बालकै: चित्रपटं दृष्टम्।
१० पुरुषाः पात्राणि प्रक्षालितवन्त:।
पुरुषैः पात्राणि प्रक्षालितानि ।
No comments:
Post a Comment