Wednesday, December 30, 2015

तत्त्वम् नाम किम्?
--------------

तत्त्वमसीत्यादिवाक्येषु ’तत्' पदेन व्यपदिश्यमानम् अन्यथाऽनिर्वचनीयम्, " यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।" इत्युपनिषत्सूपवर्णितम्, "अरूपमगुणमद्रव्यमनिन्द्रियगोचरमनूह्यमचरमनाद्यनन्तमविशेष्यममविशिष्ट्मज्ञेयमद्वयम्" "नेति नेति" इति ज्ञानिभिः नञैव व्यादिष्टं ब्रह्मवस्तु तत्पदेन विना केनान्येन निर्वाच्यम्? । तस्य ब्रह्मवस्तुनः महिमानं विशदयितुं प्रवृत्तं ब्रह्मसूत्रादि वेदभाष्यादि शास्त्रम् तत्त्वशास्त्रमिति प्रोच्यते । यथा अद्वैतवेदान्ते  अशेषविशेषप्रत्यनीकं चिन्मात्रम् ब्रह्मैकमेव तत्वमिति सर्वं खल्विदं ब्रह्म । इति ।

एवमन्येष्वपि दर्शनशास्त्रेषु स्वस्वमतान्यनूद्य नानातत्त्वानि निरूपितानि । भौतिकैः प्रमाणैः विवेक्तुं प्रमापयितुं च यन्न शक्यं तत् जगतः सारभूतम् वस्तु किञ्चित् तत्त्वमित्युच्यते । अमरकोशानुसारं तत्वम्, तत्त्वम् इति द्विप्रकारेणापि प्रयोगॆ विद्यमानं पदं विलम्बिताख्ये नाट्यप्रकारे अर्थद्योतकं भवति ।

            –जय श्रीमन्नारायण।

No comments:

Post a Comment