Wednesday, December 30, 2015

सर्वेभ्यो भू देवेभ्यो नमो नम: 🌷🙏🌷सुप्रभातम्🌅
विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च।
विज्ञानं देवाः सर्वे।
ब्रह्म ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्वेद।
तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हित्वा।
सर्वान्कामान्समश्नुत इति। तस्यैष एव शारीर आत्मा।
यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानमयात्।
अन्योऽन्तर आत्माऽऽनन्दमयः। तेनैष पूर्णः।
स वा एष पुरुषविध एव। तस्य पुरुषविधताम्।
अन्वयं पुरुषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः।
प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा।
तदप्येष श्लोको भवति॥🌷🙏🌷

No comments:

Post a Comment