Tuesday, October 6, 2015

|| श्रीदक्षिणामूर्तिस्तोत्रम्मङ्गलश्लोकः ||

     

||श्रीदक्षिणामूर्तिस्तोत्रम्||
श्रीदक्षिणामूर्तिस्तोत्रम्
मङ्गलश्लोकः
~~~~~~~~~~~~~
विश्वं दर्पणदृश्यमाननगरी तुल्यं निजान्तर्गतम्
    पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम्
    तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥
अन्वयः पदविभागः च– विश्वं दर्पणदृश्यमाननगरी तुल्यं (अस्ति) । यथा निद्रया निजान्तर्गतं (स्वप्नविश्वम्) बहिरिव उद्भूतं (तथा) मायया (बहिरिव जाग्रत्प्रपञ्चम्) आत्मनि पश्यन् यः प्रबोधसमये स्वात्मानम् अद्वयम् एव साक्षात्कुरुते  तस्मै  श्रीगुरुमूर्तये श्रीदक्षिणामूर्तये इदं नमः ।
प्रतिपदार्थः –विश्वं– जगत् दर्पणदृश्यमाननगरी –बिम्बे पश्यन्ती पुरी तुल्यं – समानम् (अस्ति) । यथा निद्रया – शयनेन निजान्तर्गतम् – निद्रालोः अन्ते यत् स्वप्नप्रपञ्चम् बहिः इव  - बाह्यसदृशम् उद्भूतम् – जायमानं (तथा) मायया – अविद्यया (बहिरिव उद्भूतं जाग्रत्प्रपञ्चम्) आत्मनि – स्वे पश्यन् यः – यः ज्ञानी दृश्यमानः प्रबोधसमये – समाधौ ज्ञानोदयकाले स्वात्मानम् – अन्तस्थं  चैतन्यम्  अद्वयम् – एकम्  एव – अन्यविषयान्तरा साक्षात्कुरुते – अपरोक्षतया त्रिपुटीरहितः दृश्यते तस्मै श्रीगुरुमूर्तये श्रीदक्षिणामूर्तये इदं नमः ॥
को गुरुः ? गुकारश्चान्धकारोहि रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥
दक्षिणामूर्तिः– दक्षिणं प्रति मूर्तिः, मृत्युञ्जयः, शिवः ।
श्लोकः – १
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
    मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥
अन्वयः पदविभागः च– इदं जगत् प्राक् बीजस्य अन्तः अङ्कुरः इव निर्विकल्पं (आसीत्) । पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । यः मायावी इव महायोगी इव अपि स्वेच्छया (इदं जगत्) विजृम्भयति, श्रीगुरुमूर्तये श्रीदक्षिणामूर्तये तस्मै इदं नमः ॥
प्रतिपदार्थः –इदम्– एतत् जगत् – विश्वम् प्राक् – पूर्वम् बीजस्य -वपनस्य अन्तः – अन्ते अङ्कुरः इव – मञ्चरी इव निर्विकल्पम् – अव्यक्तम् (आसीत्) । यः मायावी इव - ऐन्द्रजालिकः इव महायोगी इव – शिद्धपुरुषः इव अपि - च स्वेच्छया – स्वस्य सङ्कल्पेन पुनः (पुनः पुनः)
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् – प्रकृत्या परिभावितयोः जायमानयोः देशकालयोः फलेन नानात्वेन शोभितं (इदं जगत्) विजृम्भयति – प्रसारयति, श्रीदक्षिणामूर्तये तस्मै इदं नमः ॥
व्याकरणांशाः
१. निर्विकल्पम् – निर्गताः विकल्पाः यस्मात् सः
२. स्वेच्छया – स्वस्य इच्छा स्वेच्छा तया
३. मायया कल्पितः, मायाकल्पितः – माययापरिभावितः । देशः च कालः च देशकालौ । मायाकल्पितौ देशकालौ मायाकल्पितदेशकालौ, तयोः मायाकल्पितदेशकालयोः । मायाकल्पितदेशकालयोः कलना मायाकल्पितदेशकालकलना । मायाकल्पितदेशकालकलनया वैचित्र्यं – मायाकल्पितदेशकालकलनावैचित्र्यम् । मायाकल्पितदेशकालकलनावैचित्र्येण चित्रीकृतम्, मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
भावार्थः – यथा वपने अङ्कुरः अव्यक्तरूपः सन् तथा एतद्जगदपि सृष्टेः पूर्वं मायायां बीजाकारे आसीत् । सृष्ट्यनन्तरं अमुया मायया कृताभ्यां देशकालाभ्यां कार्याभ्यां प्रपञ्चः अनेकरूपतया भाति । यत् पूर्वं नास्ति परे सदिव भाति तन्मिथ्या । एतत् सृष्टिकार्यम् ऐन्द्रजालिकेन वा सिद्धपुरुषेण वा  प्रसारयत् ऐन्द्रजालिकं समानम् अस्ति । येन गुरुणा परब्रह्मणा ईश्वरेण स्वशक्त्या जगत् क्रियमाणं, तस्मै अस्मदाचार्याय  हरीश्वरैक्याय  परमात्मने एतान् नमस्कारान् समर्पयामि ॥
'ईश्वरोगुरुरात्मेति मूर्तिभेदविभागिने ।



पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830 

No comments:

Post a Comment