

मङ्गलाचरणम् सिद्धिः साध्ये सतामस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥ १ ॥ श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥ २ ॥ विद्या-प्रशंसा अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ३ ॥ सर्व-द्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच्च सर्वदा ॥ ४ ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ ५ ॥ विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥ ६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथा-च्छलेन बालानां नीतिस्तद् इह कथ्यते ॥ ८ ॥ मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिरेव च । पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥ ९ ॥ अथ कथा-मुखम् अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव -- अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ १० ॥ यौवनं धन-सम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ११ ॥ इत्याकर्ण्यात्मनः पुत्राणामनधिगत-शास्त्राणां नित्यमुन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास । कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ १२ ॥ अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिमः । सकृद् दुःख-करावाद्यावन्तिमस्तु पदे पदे ॥ १३ ॥ किं च -- वरं गर्भ-स्रावो वरमपि च नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यावजनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न वाविद्वान् रूप-द्रविण-गुण-युक्तोऽपि तनयः ॥ १४ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ १५ ॥ अन्यच्च -- गुणि-गण-गणनाऽरम्भे न पतति कठिनी स-सम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति ? ॥ १६ ॥ अपि च -- दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायामर्थ-लाभे च मातुरुच्चार एव सः ॥ १७ ॥ अपरं च -- वरमेको गुणी पुत्रो न च मूर्ख-शतैरपि । एकश्चन्द्रस्तमो हन्ति न च तारा-गणैरपि ॥ १८ ॥ पुण्य-तीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥ १९ ॥ तथा चोक्तं -- अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यश्च पुत्रोऽर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥ २० ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ २१ ॥ ऋण-कर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ २२ ॥ यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः । धनुर्वंश-विशुद्धोऽपि निर्गुणः किं करिष्यति ॥ २३ ॥ हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ २४ ॥ तत् कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः -- आहार-निद्रा-भय-मैथुनानि सामान्यमेतत् पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ २५ ॥ यतः -- धर्मार्थ-काम-मोक्षाणां यस्यैकोऽपि न विद्यते । अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ॥ २६ ॥ यच्चोच्यते -- आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २७ ॥ किं च -- अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ॥ २८ ॥ अन्यच्च -- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता-विष-घ्नोऽयमगदः किं न पीयते ॥ २९ ॥ एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् । पुरुषकारौत्कर्ष्यमाह -- यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३० ॥ तथा च -- पूर्व-जन्म-कृतं कर्म तद् दैवमिति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥ ३१ ॥ न दैवमपि संचिन्त्य त्यजेद् उद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ३२ ॥ अन्यच्च -- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ३३ ॥ यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवमात्म-कृतं कर्म मानवः प्रतिपद्यते ॥ ३४ ॥ काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ३६ ॥ तथा चोक्तं -- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा ॥ ३७ ॥ रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः । विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३८ ॥ अपरञ्च -- पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ । न शोभते सभामध्ये जार-गर्भ इव स्त्रियाः ॥ ३९ ॥ एतच्चिन्तयित्वा राजा पण्डित-सभां कारितवान् । राजोवाच --भो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्ग-गामिनामनधिगत-शास्त्राणामिदानीं नीति-शास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ? यतः -- काचः काञ्चन-संसर्गाद् धत्ते मारकतीर्द्युतीः । तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ॥ ४० ॥ उक्तं च -- हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ४१ ॥ अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिरिवाब्रवीत् --देव महाकुल-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः -- नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ॥ ४२ ॥ अन्यच्च -- अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्य-रागानां जन्म काच-मणेः कुतः ॥ ४३ ॥ अतोऽहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनरुवाच । कीटोऽपि सुमनः-सङ्गाद् आरोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ४४ ॥ अन्यच्च -- यथोदय-गिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्-सन्निधानेन हीन-वर्णोऽपि दीप्यते ॥ ४५ ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य-तोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्युपेयाः ॥ ४६ ॥ तद् एतेषामस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणमित्युक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥ %i ##--## १ मित्र-लाभः अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितोऽब्रवीत् --भो राज-पुत्राः शृणुत -- काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ १ ॥ तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैरुक्तम् --आर्य ! कथ्यतां । विष्णु-शर्मोवाच --शृणुत यूयम् । सम्प्रति मित्र-लाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः -- असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः । साधयन्त्याशु कार्याणि काक-कूर्म-मृगाखुवत् ॥ २ ॥ राजपुत्रा ऊचुः --कथमेतत् ? सोऽब्रवीत् --अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि । लघुपतन-नामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमटन्तं पाश-हस्तं व्याघमपश्यत् । तमालोक्याचिन्तयत् --अद्य प्रातरेवानिष्ट-दर्शनं जातम् । न जाने किमनभिमतं दर्शयिष्यति । इत्युक्त्वा तद् अनुसरण-क्रमेण व्याकुलश्चलति । यतः -- शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ३ ॥ अन्यच्च --विषयिणामिदमवश्यं कर्तव्यम् । उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ ४ ॥ अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस्तण्डुल-कणान् अवलोकयामास । ततः कपोत-राजस्तण्डुल-कण-लुब्धान् कपोतान् प्राह --कुतोऽत्र निर्जने वने तण्डुल-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रमिदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिरपि तथा भवितव्यम् । कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ ५ ॥ कपोता ऊचुः --कथमेतत् ? कथा १ सोऽब्रवीत् --अहमेकदा दक्षिणारण्ये चरन्न् अपश्यमेको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते --भो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम् --भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर्न विधेया । यतः -- अनिष्टाद् इष्ट-लाभे --पि न गतिर्जायते शुभा । यत्रास्ते विष-संसर्गोऽमृतं तद् अपि मृत्यवे ॥ ६ ॥ किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव । तथा चोक्तम् -- न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ७ ॥ तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत् --कथं मारात्मके त्वयि विश्वासः ? व्याघ्र उवाच --शृणु रे पान्थ ! प्राग् एव यौवन-दशायामहमतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश्च । वंश-हीनश्चाहम् । ततः केनचिद् धार्मिकेणाहमुपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीमहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः ? उक्तं च -- इज्याऽध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्ट-विधः स्मृतः ॥ ८ ॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ ९ ॥ मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थमपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुमिच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः -- गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ १० ॥ मया च धर्म-शास्त्राणि अधीतानि । शृणु -- मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥ ११ ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ १२ ॥ अपरं च -- प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १३ ॥ अन्यच्च -- मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् । आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ॥ १४ ॥ त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नोऽहम् । तथा चोक्तम् -- दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १५ ॥ अन्यत् च -- दातव्यमिति यद् दानं दीयते --नुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ १६ ॥ तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणमिदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पङ्के निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत् --अहह महा-पङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत् -- न धर्म-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ १७ ॥ किं च -- अवशेन्द्रिय-चित्तानां हस्ति-स्नानमिव क्रिया । दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ॥ १८ ॥ तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम् -- नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥ १९ ॥ अपरं च -- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ २० ॥ अन्यच्च -- स हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शत-कर-धारी ज्योतिषां मध्य-चारी । विधुरपि विधि-योगाद् ग्रस्यते राहुणासौ लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ २१ ॥ इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोऽहं ब्रवीमि --कङ्कणस्य तु लोभेनेत्यादि । अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः -- सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ-काले --पि न याति विक्रियाम् ॥ २२ ॥ एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पमाह --आः ! किमेवमुच्यते ? वृद्धस्य वचनं ग्राह्यमापत्-काले ह्युपस्थिते । सर्वत्रैवं विचारे च भोजने --पि प्रवर्तताम् ॥ २३ ॥ यतः -- शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ २४ ॥ यथा चोक्तम् -- ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्य-शङ्कितः । पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ॥ २५ ॥ एतच्छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः -- सुमहान्त्यपि शास्त्राणि धारयन्तो बहु-श्रुताः । छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ॥ २६ ॥ अन्यच्च -- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान् मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ २७ ॥ अन्यच्च -- असंभवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियोऽपि पुंसां मलिना भवन्ति ॥ २८ ॥ अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः, न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यान् मुखरस्तत्र हन्यते ॥ २९ ॥ तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच --नायमस्य दोषः, यतः आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ॥ ३० ॥ अन्यच्च -- स बन्धुर्यो विपन्नानामापद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ॥ ३१ ॥ विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः -- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृति-सिद्धमिदं हि महात्मनाम् ॥ ३२ ॥ सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ ३३ ॥ अन्यच्च -- षड्-दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ॥ ३४ ॥ इदानीमपि एवं क्रियताम् --सर्वैरेकचित्तीभूय जालमादाय उड्डीयताम् । यतः -- अल्पानामपि वस्तूनां संहतिः कार्य-साधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्त-दन्तिनः ॥ ३५ ॥ संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ ३६ ॥ इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस्तान् अवलोक्य पश्चाद् धावितोऽचिन्तयत् -- संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ ३७ ॥ ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः --स्वामिन् ! किमिदानीं कर्तुमुचितम् ? चित्रग्रीव उवाच -- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश्चान्ये भवन्ति हित-बुद्धयः ॥ ३८ ॥ तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति । सोऽस्माकं पाशांश्छेत्स्यति इत्यालोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश्च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच्चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच --सखे हिरण्यक ! कथमस्मान् न सम्भाषसे ? ततो हिरण्यकस्तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर्निःसृत्य अब्रवीत् --आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः । यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ ३९ ॥ अथ पाश-बद्धांश्चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच --सखे ! किमेतत् ? चित्रग्रीव उवाच -- सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलमेतत् । यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्म-कर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृ-वशाद् उपैति ॥ ४० ॥ राग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मापराध-वृक्षाणां फलान्येतानि देहिनाम् ॥ ४१ ॥ एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाच --मित्र ! मा मैवं कुरु । प्रथममस्मद्-आश्रितानामेतेषां तावत् पाशांश्छिन्धि । मम पाशं पश्चाच्छेत्स्यसि । हिरण्यकोऽप्याह --अहमल्प-शक्तिः । दन्ताश्च मे कोमलाः । तद् एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरमप्येतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाच --अस्त्वेवम् । तथापि यथा-शक्ति बन्धनमेतेषां खण्डय । हिरण्यकेनोक्तम् --आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः -- आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि । आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ ४२ ॥ अन्यच्च-- धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ ४३ ॥ चित्रग्रीव उवाच --सखे ! नीतिस्तावद् ईदृश्येव, किन्त्वहमस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः -- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ४४ ॥ अयमपरश्चासाधारणो हेतुः । जाति-द्रव्य-बलानां च साम्यमेषां मया सह । मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ॥ ४५ ॥ अन्यच्च -- विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान् ॥ ४६ ॥ किं च -- मांस-मूत्र-पुरीषास्थि-पूरिते --त्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ ४७ ॥ अपरं च पश्य -- यदि नित्यमनित्येन निर्मलं मल-वाहिना । यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ ४८ ॥ यतः -- शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ॥ ४९ ॥ इत्याकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत् --साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह --सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः --योऽधिकाद् योजन-शतान् पश्यतीहामिषं खगः । स एव प्राप्त-कालस्तु पाश-बन्धं न पश्यति ॥ ५० ॥ अपरं च -- शशि-दिवाकरयोर्ग्रह-पीडनं गज-भुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥ ५१ ॥ अन्यच्च -- व्योमैकान्त-विहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाध-सलिलान् मत्स्याः समुद्राद् अपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थान-लाभे गुणः कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥ ५२ ॥ इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यकोऽपि स्व-विवरं प्रविष्टः । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ॥ ५३ ॥ अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यमिदमाह --अहो हिरण्यक ! श्लाघ्योऽसि, अतोऽहमपि त्वया सह मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तराद् आह --कस्त्वम् ? स ब्रूते --लघुपतनक-नामा वायसोऽहम् । हिरण्यको विहस्याह --का त्वया सह मैत्री ? यतः -- यद् येन युज्यते लोके बुधस्तत् तेन योजयेत् । अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ ५४ ॥ अपरं च -- भक्ष्य-भक्षयोः प्रीतिर्विपत्तेः कारणं मतम् । शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ ५५ ॥ वायसोऽब्रवीत्--कथमेतत् ? हिरण्यकः कथयति -- कथा २ अस्ति मगध-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालोऽचिन्तयत् --आः ! कथमेतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्यालोच्य उपसृत्याब्रवीत् --मित्र ! कुशलं ते ? मृगेणोक्तम् --कस्त्वम् ? स ब्रूते --क्षुद्र-बुद्धि-नामा जम्बुकोऽहम् । अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः स-बन्धुर्जीव-लोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यमिति । मृगेणोक्तम् --एवमस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काकोऽवदत् --सखे चित्राङ्ग ! कोऽयं द्वितीयः ? मृगो ब्रूते --मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रमाचरितम् । तथा चोक्तम् --अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥ ५६ ॥ तौ आहतुः--कथमेतत् ? काकः कथयति -- कथा ३ अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षि-शावकैर्भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेन उक्तम् --कोऽयमायाति ? दीर्घकर्णो गृध्रमवलोक्य स-भयमाह --हा हतोऽस्मि यतोऽयं मां व्यापादयिष्यति । अथवाऽ तावद् भयस्य भेतव्यं यावद् भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ ५७ ॥ अधुनातिसन्निधाने पलायितुमक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य तमुपसृत्याब्रवीत् --आर्य ! त्वामभिवन्दे । गृध्रोऽवदत् --कस्त्वम् ? सोऽवदत् --मार्जारोऽहम् । गृध्रो ब्रूते --दूरमपसर नो चेत् हन्तव्योऽसि मया । मार्जारोऽवदत् --श्रूयतां तावत् मद्-वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः -- जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ ५८ ॥ गृध्रो ब्रूते --ब्रूहि किमर्थमागतोऽसि ? सोऽवदत् --अहमत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतमाचरंस्तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः, यन् मामतिथिं हन्तुमुद्यताः ? गृहस्थ-धर्मश्च एषः -- अरावप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ ५९ ॥ किं च --यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव । तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६० ॥ अन्यच्च -- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ ६१ ॥ अपरं च -- निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डाल-वेश्मनः ॥ ६२ ॥ अन्यच्च -- अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ६३ ॥ अन्यच्च -- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथा-योग्यं सर्व-देव-मयोऽतिथिः ॥ ६४ ॥ गृध्रोऽवदत् --मार्जारो हि मांस-रुचिः । पक्षि-शावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि । तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च --मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि धर्म-शास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः -- सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश्च ये । सर्वस्याश्रय-भूताश्च ते नराः स्वर्ग-गामिनः ॥ ६५ ॥ अन्यच्च -- एक एव सुहृद् धर्मो निधने --प्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥ ६६ ॥ किं च -- योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ६७ ॥ अपि च -- मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ ६८ ॥ शृणु पुनः -- स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ ६९ ॥ एवं विश्वास्य स मार्जारस्तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोऽहं ब्रवीमि --अज्ञात-कुल-शीलस्य इत्यादि । इत्याकर्ण्य स जम्बुकः स-कोपमाह --मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते ? अथवाऽ यत्र विद्वज्-जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्त-पादपे देशे एरण्डोऽपि द्रुमायते ॥ ७० ॥ अन्यच्च -- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ ७१ ॥ यथा चायं मृगो मम बन्धुस्तथा भवान् अपि । मृगोऽब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः -- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ ७२ ॥ काकेन उक्तम् --एवमस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते --सखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रमस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोऽचिन्तयत् --को मामितः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः ? अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत् --फलितस्तावद् अस्माकं कपट-प्रबन्धः । मनोरथ-सिद्धिरपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूते --सखे ! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः -- आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ ७३ ॥ अपरं च -- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ७४ ॥ जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत् --दृढस्तावद् अयं बन्धः । ब्रूते च --सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथमेतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यमिति । अनन्तरं स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच --सखे ! किमेतत् ? मृगेणोक्तम् --अवधीरित-सुहृद्-वाक्यस्य फलमेतत् तथा चोक्तम् -- सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ ७५ ॥ काको ब्रूते --स वञ्चकः क्वास्ते ? मृगेणोक्तं --मन्-मांसार्थी तिष्ठत्यत्रैव । काको ब्रूते --मित्र ! उक्तमेव मया पूर्वम् । अपराधो न मे --स्तीति नैतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ७६ ॥ दीप-निर्वाण-गन्धं च सुहृद्-वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ ७७ ॥ परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् । वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ॥ ७८ ॥ ततः काको दीर्घं निःश्वस्य उवाच --अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः -- संलापितानां मधुरैर्वचोभिर् मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥ ७९ ॥ अन्यच्च -- उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनमसत्य-सन्धं भगवति वसुधे कथं वहसि ॥ ८० ॥ दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८१ ॥ अथवा स्थितिरियं दुर्जनानाम् -- प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे फलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ ८२ ॥ तथा च -- दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८३ ॥ अथ प्रभाते स क्षेत्र-पतिर्लगुड-हस्तस्तं प्रदेशमागच्छन् काकेनावलोकितः । तमवलोक्य काकेनोक्तम् --सखे मृग ! त्वमात्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वमुत्थाय सत्वरं पलायिष्यसे । मृगस्तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ --आः ! स्वयं मृतोऽसि ? इत्युक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम् -- त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युत्कटैः पाप-पुण्यैरिहैव फलमश्नुते ॥ ८४ ॥ अतोऽहं ब्रवीमि --भक्ष्य-भक्ष्यकयोः प्रीतिरित्यादि । इति मृग-वायस-शृगाल-कथा काकः पुनराह -- भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ ८५ ॥ अन्यच्च -- तिरश्चामपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ॥ ८६ ॥ किं च -- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ ८७ ॥ हिरण्यको ब्रूते --चपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम् -- मार्जारो महिषो मेषः काकः कापुरुषस्तथा । विश्वासात् प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ ८८ ॥ किं चान्यत् --शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत् -- शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ८९ ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ९० ॥ यद् अशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥ ९१ ॥ अपरं च -- महताप्यर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ॥ ९२ ॥ लघु-पतनको ब्रूते --श्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यमवश्यं करणीयमिति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि -- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनक-घटवद् दुर्भेद्यश्चाशु सन्धेयः ॥ ९३ ॥ किं च -- द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयाल् लोभाच्च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ ९४ ॥ किं च -- नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ ९५ ॥ अन्यच्च -- स्नेह-च्छेदे --पि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गे --पि हि मृणालानामनुबध्नन्ति तन्तवः ॥ ९६ ॥ अन्यच्च -- शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्-गुणाः ॥ ९७ ॥ एतैर्गुणैरुपेतो भवदन्यो मया कः सुहृत् प्राप्तव्यः ? इत्यादि तद्-वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याह --आप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम् -- घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः सद्-युक्त्या च परिष्कृतं सुकृतिनामाकृष्टि-मन्त्रोपमम् ॥ ९८ ॥ अन्यच्च -- रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया । क्रोधो निःसत्यता द्यूतमेतन् मित्रस्य दूषणम् ॥ ९९ ॥ अनेन वचन-क्रमेण तत् एकमपि दूषणं त्वयि न लक्ष्यते । यतः -- पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ १०० ॥ अपरं च -- अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्तते --न्यथा वाणी शाठ्योपहत-चेतसः ॥ १०१ ॥ मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १०२ ॥ तद् भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्योऽन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश्च कियत्-कालोऽतिवर्तने । एकदा लघु-पतनको हिरण्यकमाह --सखे ! वायसस्य कष्टतरलभ्याहारमिदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुमिच्छामि । हिरण्यको ब्रूते -- स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ॥ १०३ ॥ काको ब्रूते --मित्र ! कापुरुषस्य वचनमेतत् । यतः -- स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४ ॥ अन्यच्च -- को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तमेव कुरुते बाहु-प्रतापार्जितम् । यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ १०५ ॥ हिरण्यको ब्रूते --मित्र क्व गन्तव्यम् ? तथा चोक्तम् -- चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥ वायसो ब्रूते --मित्र ! अस्ति सुनिरूपितं स्थानम् । हिरण्यकोऽवदत् --किं तत् ? वायसः कथयति --अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र ! परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥ १०७ ॥ स च भोजन-विशेषैर्मां संवर्धयिष्यति । हिरण्यकोऽप्याह --तत् किमत्रावस्थाय मया कर्तव्यम् ? यतः -- यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ १०८ ॥ अपरं च--- धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १०९ ॥ अपरं च--- लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ ११० ॥ अन्यच्च -- तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋण-दाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १११ ॥ अतो मामपि तत्र नय । वायसोऽवदत् --एवमस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु-पतनकमवलोक्य उत्थाय यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथि-सत्कारं चकार । यतः -- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ ११२ ॥ तथाऽ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ ११३ ॥ अपरं च -- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथा-योग्यं सर्व-देव-मयोऽतिथिः ॥ ११४ ॥ वायसोऽवदत् --सखे ! मन्थर ! स-विशेष-पूजामसमि विधेहि, यतोऽयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह --भद्र ! आत्मनो निर्जन-वनागमन-कारणमाख्यातुमर्हसि ? हिरण्यकोऽवदत् --कथयामि, श्रूयताम् । कथा ४ अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तके --वस्थाप्य स्वपिति । अहं च तद् अन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिमताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच --सखे ! किमिति मम कथा-विरक्तोऽन्यासक्तो भवान् ? यतः -- मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रम-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ ११५ ॥ अदृष्टि-दानं कृत-पूर्व-नाशनम् आननं दुश्चरितानुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ॥ ११६ ॥ चूडाकर्णेनोक्तम् --भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तमवलोक्याह --कथमयं मूषिकः स्वल्प-बलोऽप्येतावद् दूरमुत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम् --कारणं चात्र धन-बाहुल्यमेव प्रतिभाति । यतः -- धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धन-मूलं हि राज्ञामप्युपजायते ॥ ११७ ॥ ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारमप्युत्पादयितुमक्षमः सन्न् आसं मन्दं मन्दमुपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम् -- धनेन बलवान् लोको धनाद् भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ॥ ११८ ॥ किं च -- अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ११९ ॥ अपरं च -- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ १२० ॥ अपरं च -- अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ॥ १२१ ॥ अपरं च -- दारिद्र्यान् मरणाद् वापि दारिद्र्यमवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ १२२ ॥ अन्यच्च -- तानीन्द्रियाण्यविकलानि तद् एव नाम सा बुद्धिरप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १२३ ॥ एतत् सर्वमाकर्ण्य मयालोचितं --ममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम् -- अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ १२४ ॥ अन्यच्च -- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥ १२५ ॥ किं च -- कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने --थवा ॥ १२६ ॥ यच्चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्यनुचितम् । यतः -- अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ १२७ ॥ यच्चात्रैव याच्ञया जीवनं तद् अप्यतीव-गर्हितम् । यतः -- वरं विभव-हीनेन प्राणैः सन्तर्पितोऽनलः । नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ १२८ ॥ अन्यच्च -- दारिद्र्याद् ध्रियमेति ह्री-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदमापद्यते । निर्विण्णः शुचमेति शोक-फिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १२९ ॥ किं च -- वरं मौनं कार्यं न च वचनमुक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् । वरं प्राण-त्यागो न च पिशुन-वाक्येष्वभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ॥ १३० ॥ वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो वरं वेश्या पत्नी न पुनरविनीता कुल-वधूः । वरं वासोऽरण्ये न पुनरविवेकाधिप-पुरे वरं प्राण-त्यागो न पुनरधमानामुपगमः ॥ १३१ ॥ अपि च -- सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरि-हर-कथेव दुरितं गुण-शतमप्यर्थिता हरति ॥ १३२ ॥ तत् किमहं पर-पिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अन्यच्च -- रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी । यज् जीवति तन् मरणं यन् मरणं सोऽस्य विश्रामः ॥ १३३ ॥ इत्यालोच्यापि लोभात् पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम् -- लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १३४ ॥ ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश्चाचिन्तयम् --लुब्धो ह्यसन्तुष्टो नियतमात्म-द्रोही भवति । तथा च -- धन-लुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः । सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ १३५ ॥ सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ॥ १३६ ॥ अपरं च -- सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतस्तद्-धन-लुब्धानामितश्चेतश्च धावताम् ॥ १३७ ॥ किं च -- तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १३८ ॥ अपि च -- असेवितेश्वर-द्वारमदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ॥ १३९ ॥ न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य कर-प्राप्ते --प्यर्थे भवति नादरः ॥ १४० ॥ तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् । को धर्मो भूत-दया किं सौख्यं नित्यमरोगिना जगति । कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ॥ १४१ ॥ तथा च -- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेद-कर्तृणां विपदः स्युः पदे पदे ॥ १४२ ॥ तथा हि -- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १४३ ॥ अपरं च -- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ १४४ ॥ इत्यालोच्याहं निर्जन-वनमागतः । यतः -- वरं वनं व्याघ्र-गजेन्द्र-सेवितं द्रुमालयः पत्र-फलाम्बु-भक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धु-मध्ये धन-हीन-जीवनम् ॥ १४५ ॥ अतः -- संसार-विषय-वृक्षस्य द्वे एव रसवत् फले । काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ॥ १४६ ॥ अपरं च -- सत्-सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ १४७ ॥ मन्थर उवाच -- अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम् आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ॥ १४८ ॥ युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु -- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाहैवाम्भसाम् ॥ १४९ ॥ अन्यच्च -- यद् अधोऽधः क्षितौ वित्तं निचखान मितम्पचः । तद्-अधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १५० ॥ यतः -- निज-सौख्यं निरुन्धानो यो धनार्जनमिच्छति । परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ॥ १५१ ॥ तथा चोक्तं -- दानोपभोग-हीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ १५२ ॥ यतः -- धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ १५३ ॥ अन्यच्च -- असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ १५४ ॥ अपि च -- न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ॥ १५५ ॥ तथा चोक्तम् -- दानं प्रिय-वाक्-सहितं ज्ञानमगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ १५६ ॥ उक्तं च -- कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः । अतिसञ्चय-शीलोऽयं धनुषा जम्बुको हतः ॥ १५७ ॥ तावाहतुः --कथमेतत् ? मन्थरः कथयति -- कथा ५ आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुरादाय मृगमन्विष्यन् विन्ध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम् -- जलमग्निर्विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर्विमुच्यते ॥ १५८ ॥ अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिन्तयच्च --अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् । अथवा अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १५९ ॥ मासमेकं नरो याति द्वौ मासौ मृग-शूकरौ । अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ १६० ॥ ततः प्रथम-बुभुक्षायामिदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्युक्त्वा तथाकरोत् । ततश्छिन्ने स्नायु-बन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च -- यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १६१ ॥ किं च -- यद् ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने । तत् ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ १६२ ॥ यातु, किमिदानीमतिक्रान्तोपवर्णनेन । यतः -- नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्वपि न मुह्यन्ति नराः पण्डित-बुद्धयः ॥ १६३ ॥ तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः -- शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाम-मात्रेण करोत्यरोगम् ॥ १६४ ॥ अन्यच्च -- न स्वल्पमप्यध्यवसाय-भीरोः करोति विज्ञान-विधिर्गुणं हि । अन्धस्य किं हस्त-तल-स्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ १६५ ॥ तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्यतिकष्टं त्वया न मन्तव्यम् । सुखमापतितं सेव्यं दुःखमापतितं तथा । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ १६६ ॥ अपरं च -- निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्व-सम्पदः ॥ १६७ ॥ अपि च -- उत्साह-संपन्नमदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥ १६८ ॥ विशेषतश्च -- विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नति-पदं समायुक्तोऽप्यर्थैः परिभव-पदं याति कृपणः । स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां द्युतिं सैंहीं श्वा किं धृत-कनक-मालोऽपि लभते ॥ १६९ ॥ किं च -- धनवान् इति हि मदस्ते किं गत-विभवो विषादमुपयासि । कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ॥ १७० ॥ अन्यच्च -- वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १७१ ॥ अपि च सखे शृणु -- येन शुक्ली-कृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १७२ ॥ अपरं च सतां रहस्यं शृणु, मित्र ! जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ १७३ ॥ अपरं च -- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ १७४ ॥ यतः -- यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ १७५ ॥ अन्यच्च -- राजतः सलिलाद् अग्नेश्चोरतः स्वजनाद् अपि । भयमर्थवतां नित्यं मृत्योः प्राण-भृतामिव ॥ १७६ ॥ तथा हि -- जन्मनि क्लेश-बहुले किं नु दुःखमतः परम् । इच्छा-सम्पद् यतो नास्ति यच्चेच्छा न निवर्तते ॥ १७७ ॥ अन्यच्च भ्रातः शृणु -- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्ध-नाशो यथा मृत्युस्तस्माद् एतन् न चिन्तयेत् ॥ १७८ ॥ सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ १७९ ॥ अपरं च -- यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ १८० ॥ किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः -- आम्रणान्ताः प्रणयाः कोपाश्च क्षण-भङ्गुराः । परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ १८१ ॥ इति श्रुत्वा लघुपतनको ब्रूते --धन्योऽसि मन्थर ! सर्वथा आश्रयणीयोऽसि । यतः -- सन्त एव सतां नित्यमापद्-उद्धरण-क्षमाः । गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ॥ १८२ ॥ अपरं च -- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्-पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥ १८३ ॥ तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर्न कोऽप्यवलम्बितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं --भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम् । चित्राङ्गो ब्रूते --लुब्धक-त्रासितोऽहं भवतां शरणमागतः । ततश्च, भवद्भिः सह मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः -- लोभाद् वाथ भयाद् वापि यस्त्यजेच्छरणागतम् । ब्रह्म-हत्या-समं तस्य पापमाहुर्मनीषिणः ॥ १८४ ॥ हिरण्यकोऽप्यवदत् --मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः -- औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् । रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्-विधम् ॥ १८५ ॥ तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच्छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायामुपविष्टः । अथ मन्थरो ब्रूते --सखे मृग ! केन त्रासितोऽसि ? अस्मिन् निर्जने वने कदाचि॥ हितोपदेशः ॥
मङ्गलाचरणम् सिद्धिः साध्ये सतामस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥ १ ॥ श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥ २ ॥ विद्या-प्रशंसा अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ३ ॥ सर्व-द्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच्च सर्वदा ॥ ४ ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ ५ ॥ विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥ ६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथा-च्छलेन बालानां नीतिस्तद् इह कथ्यते ॥ ८ ॥ मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिरेव च । पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥ ९ ॥ अथ कथा-मुखम् अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव -- अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ १० ॥ यौवनं धन-सम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ११ ॥ इत्याकर्ण्यात्मनः पुत्राणामनधिगत-शास्त्राणां नित्यमुन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास । कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ १२ ॥ अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिमः । सकृद् दुःख-करावाद्यावन्तिमस्तु पदे पदे ॥ १३ ॥ किं च -- वरं गर्भ-स्रावो वरमपि च नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यावजनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न वाविद्वान् रूप-द्रविण-गुण-युक्तोऽपि तनयः ॥ १४ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ १५ ॥ अन्यच्च -- गुणि-गण-गणनाऽरम्भे न पतति कठिनी स-सम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति ? ॥ १६ ॥ अपि च -- दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायामर्थ-लाभे च मातुरुच्चार एव सः ॥ १७ ॥ अपरं च -- वरमेको गुणी पुत्रो न च मूर्ख-शतैरपि । एकश्चन्द्रस्तमो हन्ति न च तारा-गणैरपि ॥ १८ ॥ पुण्य-तीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥ १९ ॥ तथा चोक्तं -- अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यश्च पुत्रोऽर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥ २० ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ २१ ॥ ऋण-कर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ २२ ॥ यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः । धनुर्वंश-विशुद्धोऽपि निर्गुणः किं करिष्यति ॥ २३ ॥ हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ २४ ॥ तत् कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः -- आहार-निद्रा-भय-मैथुनानि सामान्यमेतत् पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ २५ ॥ यतः -- धर्मार्थ-काम-मोक्षाणां यस्यैकोऽपि न विद्यते । अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ॥ २६ ॥ यच्चोच्यते -- आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २७ ॥ किं च -- अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ॥ २८ ॥ अन्यच्च -- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता-विष-घ्नोऽयमगदः किं न पीयते ॥ २९ ॥ एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् । पुरुषकारौत्कर्ष्यमाह -- यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३० ॥ तथा च -- पूर्व-जन्म-कृतं कर्म तद् दैवमिति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥ ३१ ॥ न दैवमपि संचिन्त्य त्यजेद् उद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ३२ ॥ अन्यच्च -- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ३३ ॥ यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवमात्म-कृतं कर्म मानवः प्रतिपद्यते ॥ ३४ ॥ काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ३६ ॥ तथा चोक्तं -- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा ॥ ३७ ॥ रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः । विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३८ ॥ अपरञ्च -- पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ । न शोभते सभामध्ये जार-गर्भ इव स्त्रियाः ॥ ३९ ॥ एतच्चिन्तयित्वा राजा पण्डित-सभां कारितवान् । राजोवाच --भो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्ग-गामिनामनधिगत-शास्त्राणामिदानीं नीति-शास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ? यतः -- काचः काञ्चन-संसर्गाद् धत्ते मारकतीर्द्युतीः । तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ॥ ४० ॥ उक्तं च -- हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ४१ ॥ अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिरिवाब्रवीत् --देव महाकुल-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः -- नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ॥ ४२ ॥ अन्यच्च -- अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्य-रागानां जन्म काच-मणेः कुतः ॥ ४३ ॥ अतोऽहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनरुवाच । कीटोऽपि सुमनः-सङ्गाद् आरोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ४४ ॥ अन्यच्च -- यथोदय-गिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्-सन्निधानेन हीन-वर्णोऽपि दीप्यते ॥ ४५ ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य-तोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्युपेयाः ॥ ४६ ॥ तद् एतेषामस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणमित्युक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥ %i ##--## १ मित्र-लाभः अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितोऽब्रवीत् --भो राज-पुत्राः शृणुत -- काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ १ ॥ तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैरुक्तम् --आर्य ! कथ्यतां । विष्णु-शर्मोवाच --शृणुत यूयम् । सम्प्रति मित्र-लाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः -- असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः । साधयन्त्याशु कार्याणि काक-कूर्म-मृगाखुवत् ॥ २ ॥ राजपुत्रा ऊचुः --कथमेतत् ? सोऽब्रवीत् --अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि । लघुपतन-नामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमटन्तं पाश-हस्तं व्याघमपश्यत् । तमालोक्याचिन्तयत् --अद्य प्रातरेवानिष्ट-दर्शनं जातम् । न जाने किमनभिमतं दर्शयिष्यति । इत्युक्त्वा तद् अनुसरण-क्रमेण व्याकुलश्चलति । यतः -- शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ३ ॥ अन्यच्च --विषयिणामिदमवश्यं कर्तव्यम् । उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ ४ ॥ अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस्तण्डुल-कणान् अवलोकयामास । ततः कपोत-राजस्तण्डुल-कण-लुब्धान् कपोतान् प्राह --कुतोऽत्र निर्जने वने तण्डुल-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रमिदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिरपि तथा भवितव्यम् । कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ ५ ॥ कपोता ऊचुः --कथमेतत् ? कथा १ सोऽब्रवीत् --अहमेकदा दक्षिणारण्ये चरन्न् अपश्यमेको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते --भो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम् --भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर्न विधेया । यतः -- अनिष्टाद् इष्ट-लाभे --पि न गतिर्जायते शुभा । यत्रास्ते विष-संसर्गोऽमृतं तद् अपि मृत्यवे ॥ ६ ॥ किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव । तथा चोक्तम् -- न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ७ ॥ तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत् --कथं मारात्मके त्वयि विश्वासः ? व्याघ्र उवाच --शृणु रे पान्थ ! प्राग् एव यौवन-दशायामहमतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश्च । वंश-हीनश्चाहम् । ततः केनचिद् धार्मिकेणाहमुपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीमहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः ? उक्तं च -- इज्याऽध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्ट-विधः स्मृतः ॥ ८ ॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ ९ ॥ मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थमपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुमिच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः -- गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ १० ॥ मया च धर्म-शास्त्राणि अधीतानि । शृणु -- मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥ ११ ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ १२ ॥ अपरं च -- प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १३ ॥ अन्यच्च -- मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् । आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ॥ १४ ॥ त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नोऽहम् । तथा चोक्तम् -- दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १५ ॥ अन्यत् च -- दातव्यमिति यद् दानं दीयते --नुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ १६ ॥ तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणमिदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पङ्के निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत् --अहह महा-पङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत् -- न धर्म-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ १७ ॥ किं च -- अवशेन्द्रिय-चित्तानां हस्ति-स्नानमिव क्रिया । दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ॥ १८ ॥ तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम् -- नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥ १९ ॥ अपरं च -- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ २० ॥ अन्यच्च -- स हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शत-कर-धारी ज्योतिषां मध्य-चारी । विधुरपि विधि-योगाद् ग्रस्यते राहुणासौ लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ २१ ॥ इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोऽहं ब्रवीमि --कङ्कणस्य तु लोभेनेत्यादि । अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः -- सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ-काले --पि न याति विक्रियाम् ॥ २२ ॥ एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पमाह --आः ! किमेवमुच्यते ? वृद्धस्य वचनं ग्राह्यमापत्-काले ह्युपस्थिते । सर्वत्रैवं विचारे च भोजने --पि प्रवर्तताम् ॥ २३ ॥ यतः -- शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ २४ ॥ यथा चोक्तम् -- ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्य-शङ्कितः । पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ॥ २५ ॥ एतच्छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः -- सुमहान्त्यपि शास्त्राणि धारयन्तो बहु-श्रुताः । छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ॥ २६ ॥ अन्यच्च -- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान् मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ २७ ॥ अन्यच्च -- असंभवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियोऽपि पुंसां मलिना भवन्ति ॥ २८ ॥ अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः, न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यान् मुखरस्तत्र हन्यते ॥ २९ ॥ तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच --नायमस्य दोषः, यतः आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ॥ ३० ॥ अन्यच्च -- स बन्धुर्यो विपन्नानामापद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ॥ ३१ ॥ विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः -- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृति-सिद्धमिदं हि महात्मनाम् ॥ ३२ ॥ सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ ३३ ॥ अन्यच्च -- षड्-दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ॥ ३४ ॥ इदानीमपि एवं क्रियताम् --सर्वैरेकचित्तीभूय जालमादाय उड्डीयताम् । यतः -- अल्पानामपि वस्तूनां संहतिः कार्य-साधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्त-दन्तिनः ॥ ३५ ॥ संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ ३६ ॥ इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस्तान् अवलोक्य पश्चाद् धावितोऽचिन्तयत् -- संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ ३७ ॥ ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः --स्वामिन् ! किमिदानीं कर्तुमुचितम् ? चित्रग्रीव उवाच -- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश्चान्ये भवन्ति हित-बुद्धयः ॥ ३८ ॥ तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति । सोऽस्माकं पाशांश्छेत्स्यति इत्यालोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश्च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच्चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच --सखे हिरण्यक ! कथमस्मान् न सम्भाषसे ? ततो हिरण्यकस्तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर्निःसृत्य अब्रवीत् --आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः । यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ ३९ ॥ अथ पाश-बद्धांश्चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच --सखे ! किमेतत् ? चित्रग्रीव उवाच -- सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलमेतत् । यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्म-कर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृ-वशाद् उपैति ॥ ४० ॥ राग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मापराध-वृक्षाणां फलान्येतानि देहिनाम् ॥ ४१ ॥ एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाच --मित्र ! मा मैवं कुरु । प्रथममस्मद्-आश्रितानामेतेषां तावत् पाशांश्छिन्धि । मम पाशं पश्चाच्छेत्स्यसि । हिरण्यकोऽप्याह --अहमल्प-शक्तिः । दन्ताश्च मे कोमलाः । तद् एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरमप्येतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाच --अस्त्वेवम् । तथापि यथा-शक्ति बन्धनमेतेषां खण्डय । हिरण्यकेनोक्तम् --आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः -- आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि । आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ ४२ ॥ अन्यच्च-- धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ ४३ ॥ चित्रग्रीव उवाच --सखे ! नीतिस्तावद् ईदृश्येव, किन्त्वहमस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः -- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ४४ ॥ अयमपरश्चासाधारणो हेतुः । जाति-द्रव्य-बलानां च साम्यमेषां मया सह । मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ॥ ४५ ॥ अन्यच्च -- विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान् ॥ ४६ ॥ किं च -- मांस-मूत्र-पुरीषास्थि-पूरिते --त्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ ४७ ॥ अपरं च पश्य -- यदि नित्यमनित्येन निर्मलं मल-वाहिना । यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ ४८ ॥ यतः -- शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ॥ ४९ ॥ इत्याकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत् --साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह --सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः --योऽधिकाद् योजन-शतान् पश्यतीहामिषं खगः । स एव प्राप्त-कालस्तु पाश-बन्धं न पश्यति ॥ ५० ॥ अपरं च -- शशि-दिवाकरयोर्ग्रह-पीडनं गज-भुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥ ५१ ॥ अन्यच्च -- व्योमैकान्त-विहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाध-सलिलान् मत्स्याः समुद्राद् अपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थान-लाभे गुणः कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥ ५२ ॥ इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यकोऽपि स्व-विवरं प्रविष्टः । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ॥ ५३ ॥ अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यमिदमाह --अहो हिरण्यक ! श्लाघ्योऽसि, अतोऽहमपि त्वया सह मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तराद् आह --कस्त्वम् ? स ब्रूते --लघुपतनक-नामा वायसोऽहम् । हिरण्यको विहस्याह --का त्वया सह मैत्री ? यतः -- यद् येन युज्यते लोके बुधस्तत् तेन योजयेत् । अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ ५४ ॥ अपरं च -- भक्ष्य-भक्षयोः प्रीतिर्विपत्तेः कारणं मतम् । शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ ५५ ॥ वायसोऽब्रवीत्--कथमेतत् ? हिरण्यकः कथयति -- कथा २ अस्ति मगध-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालोऽचिन्तयत् --आः ! कथमेतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्यालोच्य उपसृत्याब्रवीत् --मित्र ! कुशलं ते ? मृगेणोक्तम् --कस्त्वम् ? स ब्रूते --क्षुद्र-बुद्धि-नामा जम्बुकोऽहम् । अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः स-बन्धुर्जीव-लोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यमिति । मृगेणोक्तम् --एवमस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काकोऽवदत् --सखे चित्राङ्ग ! कोऽयं द्वितीयः ? मृगो ब्रूते --मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रमाचरितम् । तथा चोक्तम् --अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥ ५६ ॥ तौ आहतुः--कथमेतत् ? काकः कथयति -- कथा ३ अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षि-शावकैर्भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेन उक्तम् --कोऽयमायाति ? दीर्घकर्णो गृध्रमवलोक्य स-भयमाह --हा हतोऽस्मि यतोऽयं मां व्यापादयिष्यति । अथवाऽ तावद् भयस्य भेतव्यं यावद् भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ ५७ ॥ अधुनातिसन्निधाने पलायितुमक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य तमुपसृत्याब्रवीत् --आर्य ! त्वामभिवन्दे । गृध्रोऽवदत् --कस्त्वम् ? सोऽवदत् --मार्जारोऽहम् । गृध्रो ब्रूते --दूरमपसर नो चेत् हन्तव्योऽसि मया । मार्जारोऽवदत् --श्रूयतां तावत् मद्-वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः -- जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ ५८ ॥ गृध्रो ब्रूते --ब्रूहि किमर्थमागतोऽसि ? सोऽवदत् --अहमत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतमाचरंस्तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः, यन् मामतिथिं हन्तुमुद्यताः ? गृहस्थ-धर्मश्च एषः -- अरावप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ ५९ ॥ किं च --यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव । तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६० ॥ अन्यच्च -- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ ६१ ॥ अपरं च -- निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डाल-वेश्मनः ॥ ६२ ॥ अन्यच्च -- अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ६३ ॥ अन्यच्च -- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथा-योग्यं सर्व-देव-मयोऽतिथिः ॥ ६४ ॥ गृध्रोऽवदत् --मार्जारो हि मांस-रुचिः । पक्षि-शावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि । तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च --मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि धर्म-शास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः -- सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश्च ये । सर्वस्याश्रय-भूताश्च ते नराः स्वर्ग-गामिनः ॥ ६५ ॥ अन्यच्च -- एक एव सुहृद् धर्मो निधने --प्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥ ६६ ॥ किं च -- योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ६७ ॥ अपि च -- मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ ६८ ॥ शृणु पुनः -- स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ ६९ ॥ एवं विश्वास्य स मार्जारस्तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोऽहं ब्रवीमि --अज्ञात-कुल-शीलस्य इत्यादि । इत्याकर्ण्य स जम्बुकः स-कोपमाह --मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते ? अथवाऽ यत्र विद्वज्-जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्त-पादपे देशे एरण्डोऽपि द्रुमायते ॥ ७० ॥ अन्यच्च -- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ ७१ ॥ यथा चायं मृगो मम बन्धुस्तथा भवान् अपि । मृगोऽब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः -- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ ७२ ॥ काकेन उक्तम् --एवमस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते --सखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रमस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोऽचिन्तयत् --को मामितः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः ? अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत् --फलितस्तावद् अस्माकं कपट-प्रबन्धः । मनोरथ-सिद्धिरपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूते --सखे ! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः -- आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ ७३ ॥ अपरं च -- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ७४ ॥ जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत् --दृढस्तावद् अयं बन्धः । ब्रूते च --सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथमेतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यमिति । अनन्तरं स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच --सखे ! किमेतत् ? मृगेणोक्तम् --अवधीरित-सुहृद्-वाक्यस्य फलमेतत् तथा चोक्तम् -- सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ ७५ ॥ काको ब्रूते --स वञ्चकः क्वास्ते ? मृगेणोक्तं --मन्-मांसार्थी तिष्ठत्यत्रैव । काको ब्रूते --मित्र ! उक्तमेव मया पूर्वम् । अपराधो न मे --स्तीति नैतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ७६ ॥ दीप-निर्वाण-गन्धं च सुहृद्-वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ ७७ ॥ परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् । वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ॥ ७८ ॥ ततः काको दीर्घं निःश्वस्य उवाच --अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः -- संलापितानां मधुरैर्वचोभिर् मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥ ७९ ॥ अन्यच्च -- उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनमसत्य-सन्धं भगवति वसुधे कथं वहसि ॥ ८० ॥ दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८१ ॥ अथवा स्थितिरियं दुर्जनानाम् -- प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे फलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ ८२ ॥ तथा च -- दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८३ ॥ अथ प्रभाते स क्षेत्र-पतिर्लगुड-हस्तस्तं प्रदेशमागच्छन् काकेनावलोकितः । तमवलोक्य काकेनोक्तम् --सखे मृग ! त्वमात्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वमुत्थाय सत्वरं पलायिष्यसे । मृगस्तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ --आः ! स्वयं मृतोऽसि ? इत्युक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम् -- त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युत्कटैः पाप-पुण्यैरिहैव फलमश्नुते ॥ ८४ ॥ अतोऽहं ब्रवीमि --भक्ष्य-भक्ष्यकयोः प्रीतिरित्यादि । इति मृग-वायस-शृगाल-कथा काकः पुनराह -- भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ ८५ ॥ अन्यच्च -- तिरश्चामपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ॥ ८६ ॥ किं च -- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ ८७ ॥ हिरण्यको ब्रूते --चपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम् -- मार्जारो महिषो मेषः काकः कापुरुषस्तथा । विश्वासात् प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ ८८ ॥ किं चान्यत् --शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत् -- शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ८९ ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ९० ॥ यद् अशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥ ९१ ॥ अपरं च -- महताप्यर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ॥ ९२ ॥ लघु-पतनको ब्रूते --श्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यमवश्यं करणीयमिति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि -- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनक-घटवद् दुर्भेद्यश्चाशु सन्धेयः ॥ ९३ ॥ किं च -- द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयाल् लोभाच्च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ ९४ ॥ किं च -- नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ ९५ ॥ अन्यच्च -- स्नेह-च्छेदे --पि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गे --पि हि मृणालानामनुबध्नन्ति तन्तवः ॥ ९६ ॥ अन्यच्च -- शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्-गुणाः ॥ ९७ ॥ एतैर्गुणैरुपेतो भवदन्यो मया कः सुहृत् प्राप्तव्यः ? इत्यादि तद्-वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याह --आप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम् -- घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः सद्-युक्त्या च परिष्कृतं सुकृतिनामाकृष्टि-मन्त्रोपमम् ॥ ९८ ॥ अन्यच्च -- रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया । क्रोधो निःसत्यता द्यूतमेतन् मित्रस्य दूषणम् ॥ ९९ ॥ अनेन वचन-क्रमेण तत् एकमपि दूषणं त्वयि न लक्ष्यते । यतः -- पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ १०० ॥ अपरं च -- अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्तते --न्यथा वाणी शाठ्योपहत-चेतसः ॥ १०१ ॥ मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १०२ ॥ तद् भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्योऽन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश्च कियत्-कालोऽतिवर्तने । एकदा लघु-पतनको हिरण्यकमाह --सखे ! वायसस्य कष्टतरलभ्याहारमिदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुमिच्छामि । हिरण्यको ब्रूते -- स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ॥ १०३ ॥ काको ब्रूते --मित्र ! कापुरुषस्य वचनमेतत् । यतः -- स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४ ॥ अन्यच्च -- को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तमेव कुरुते बाहु-प्रतापार्जितम् । यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ १०५ ॥ हिरण्यको ब्रूते --मित्र क्व गन्तव्यम् ? तथा चोक्तम् -- चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥ वायसो ब्रूते --मित्र ! अस्ति सुनिरूपितं स्थानम् । हिरण्यकोऽवदत् --किं तत् ? वायसः कथयति --अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र ! परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥ १०७ ॥ स च भोजन-विशेषैर्मां संवर्धयिष्यति । हिरण्यकोऽप्याह --तत् किमत्रावस्थाय मया कर्तव्यम् ? यतः -- यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ १०८ ॥ अपरं च--- धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १०९ ॥ अपरं च--- लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ ११० ॥ अन्यच्च -- तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋण-दाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १११ ॥ अतो मामपि तत्र नय । वायसोऽवदत् --एवमस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु-पतनकमवलोक्य उत्थाय यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथि-सत्कारं चकार । यतः -- बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ ११२ ॥ तथाऽ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ ११३ ॥ अपरं च -- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथा-योग्यं सर्व-देव-मयोऽतिथिः ॥ ११४ ॥ वायसोऽवदत् --सखे ! मन्थर ! स-विशेष-पूजामसमि विधेहि, यतोऽयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह --भद्र ! आत्मनो निर्जन-वनागमन-कारणमाख्यातुमर्हसि ? हिरण्यकोऽवदत् --कथयामि, श्रूयताम् । कथा ४ अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तके --वस्थाप्य स्वपिति । अहं च तद् अन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिमताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच --सखे ! किमिति मम कथा-विरक्तोऽन्यासक्तो भवान् ? यतः -- मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रम-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ ११५ ॥ अदृष्टि-दानं कृत-पूर्व-नाशनम् आननं दुश्चरितानुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ॥ ११६ ॥ चूडाकर्णेनोक्तम् --भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तमवलोक्याह --कथमयं मूषिकः स्वल्प-बलोऽप्येतावद् दूरमुत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम् --कारणं चात्र धन-बाहुल्यमेव प्रतिभाति । यतः -- धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धन-मूलं हि राज्ञामप्युपजायते ॥ ११७ ॥ ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारमप्युत्पादयितुमक्षमः सन्न् आसं मन्दं मन्दमुपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम् -- धनेन बलवान् लोको धनाद् भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ॥ ११८ ॥ किं च -- अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ११९ ॥ अपरं च -- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ १२० ॥ अपरं च -- अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ॥ १२१ ॥ अपरं च -- दारिद्र्यान् मरणाद् वापि दारिद्र्यमवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ १२२ ॥ अन्यच्च -- तानीन्द्रियाण्यविकलानि तद् एव नाम सा बुद्धिरप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १२३ ॥ एतत् सर्वमाकर्ण्य मयालोचितं --ममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम् -- अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ १२४ ॥ अन्यच्च -- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥ १२५ ॥ किं च -- कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने --थवा ॥ १२६ ॥ यच्चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्यनुचितम् । यतः -- अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ १२७ ॥ यच्चात्रैव याच्ञया जीवनं तद् अप्यतीव-गर्हितम् । यतः -- वरं विभव-हीनेन प्राणैः सन्तर्पितोऽनलः । नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ १२८ ॥ अन्यच्च -- दारिद्र्याद् ध्रियमेति ह्री-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदमापद्यते । निर्विण्णः शुचमेति शोक-फिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १२९ ॥ किं च -- वरं मौनं कार्यं न च वचनमुक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् । वरं प्राण-त्यागो न च पिशुन-वाक्येष्वभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ॥ १३० ॥ वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो वरं वेश्या पत्नी न पुनरविनीता कुल-वधूः । वरं वासोऽरण्ये न पुनरविवेकाधिप-पुरे वरं प्राण-त्यागो न पुनरधमानामुपगमः ॥ १३१ ॥ अपि च -- सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरि-हर-कथेव दुरितं गुण-शतमप्यर्थिता हरति ॥ १३२ ॥ तत् किमहं पर-पिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अन्यच्च -- रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी । यज् जीवति तन् मरणं यन् मरणं सोऽस्य विश्रामः ॥ १३३ ॥ इत्यालोच्यापि लोभात् पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम् -- लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १३४ ॥ ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश्चाचिन्तयम् --लुब्धो ह्यसन्तुष्टो नियतमात्म-द्रोही भवति । तथा च -- धन-लुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः । सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ १३५ ॥ सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ॥ १३६ ॥ अपरं च -- सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतस्तद्-धन-लुब्धानामितश्चेतश्च धावताम् ॥ १३७ ॥ किं च -- तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १३८ ॥ अपि च -- असेवितेश्वर-द्वारमदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ॥ १३९ ॥ न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य कर-प्राप्ते --प्यर्थे भवति नादरः ॥ १४० ॥ तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् । को धर्मो भूत-दया किं सौख्यं नित्यमरोगिना जगति । कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ॥ १४१ ॥ तथा च -- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेद-कर्तृणां विपदः स्युः पदे पदे ॥ १४२ ॥ तथा हि -- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १४३ ॥ अपरं च -- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ १४४ ॥ इत्यालोच्याहं निर्जन-वनमागतः । यतः -- वरं वनं व्याघ्र-गजेन्द्र-सेवितं द्रुमालयः पत्र-फलाम्बु-भक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धु-मध्ये धन-हीन-जीवनम् ॥ १४५ ॥ अतः -- संसार-विषय-वृक्षस्य द्वे एव रसवत् फले । काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ॥ १४६ ॥ अपरं च -- सत्-सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ १४७ ॥ मन्थर उवाच -- अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम् आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ॥ १४८ ॥ युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु -- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाहैवाम्भसाम् ॥ १४९ ॥ अन्यच्च -- यद् अधोऽधः क्षितौ वित्तं निचखान मितम्पचः । तद्-अधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १५० ॥ यतः -- निज-सौख्यं निरुन्धानो यो धनार्जनमिच्छति । परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ॥ १५१ ॥ तथा चोक्तं -- दानोपभोग-हीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ १५२ ॥ यतः -- धनेन किं यो न ददाति नाश्नुते बलेन किं यश्च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ १५३ ॥ अन्यच्च -- असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ १५४ ॥ अपि च -- न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ॥ १५५ ॥ तथा चोक्तम् -- दानं प्रिय-वाक्-सहितं ज्ञानमगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ १५६ ॥ उक्तं च -- कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः । अतिसञ्चय-शीलोऽयं धनुषा जम्बुको हतः ॥ १५७ ॥ तावाहतुः --कथमेतत् ? मन्थरः कथयति -- कथा ५ आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुरादाय मृगमन्विष्यन् विन्ध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम् -- जलमग्निर्विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर्विमुच्यते ॥ १५८ ॥ अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिन्तयच्च --अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् । अथवा अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १५९ ॥ मासमेकं नरो याति द्वौ मासौ मृग-शूकरौ । अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ १६० ॥ ततः प्रथम-बुभुक्षायामिदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्युक्त्वा तथाकरोत् । ततश्छिन्ने स्नायु-बन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च -- यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १६१ ॥ किं च -- यद् ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने । तत् ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ १६२ ॥ यातु, किमिदानीमतिक्रान्तोपवर्णनेन । यतः -- नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्वपि न मुह्यन्ति नराः पण्डित-बुद्धयः ॥ १६३ ॥ तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः -- शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाम-मात्रेण करोत्यरोगम् ॥ १६४ ॥ अन्यच्च -- न स्वल्पमप्यध्यवसाय-भीरोः करोति विज्ञान-विधिर्गुणं हि । अन्धस्य किं हस्त-तल-स्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ १६५ ॥ तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्यतिकष्टं त्वया न मन्तव्यम् । सुखमापतितं सेव्यं दुःखमापतितं तथा । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ १६६ ॥ अपरं च -- निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्व-सम्पदः ॥ १६७ ॥ अपि च -- उत्साह-संपन्नमदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥ १६८ ॥ विशेषतश्च -- विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नति-पदं समायुक्तोऽप्यर्थैः परिभव-पदं याति कृपणः । स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां द्युतिं सैंहीं श्वा किं धृत-कनक-मालोऽपि लभते ॥ १६९ ॥ किं च -- धनवान् इति हि मदस्ते किं गत-विभवो विषादमुपयासि । कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ॥ १७० ॥ अन्यच्च -- वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १७१ ॥ अपि च सखे शृणु -- येन शुक्ली-कृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १७२ ॥ अपरं च सतां रहस्यं शृणु, मित्र ! जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ १७३ ॥ अपरं च -- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ १७४ ॥ यतः -- यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ १७५ ॥ अन्यच्च -- राजतः सलिलाद् अग्नेश्चोरतः स्वजनाद् अपि । भयमर्थवतां नित्यं मृत्योः प्राण-भृतामिव ॥ १७६ ॥ तथा हि -- जन्मनि क्लेश-बहुले किं नु दुःखमतः परम् । इच्छा-सम्पद् यतो नास्ति यच्चेच्छा न निवर्तते ॥ १७७ ॥ अन्यच्च भ्रातः शृणु -- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्ध-नाशो यथा मृत्युस्तस्माद् एतन् न चिन्तयेत् ॥ १७८ ॥ सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ १७९ ॥ अपरं च -- यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ १८० ॥ किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः -- आम्रणान्ताः प्रणयाः कोपाश्च क्षण-भङ्गुराः । परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ १८१ ॥ इति श्रुत्वा लघुपतनको ब्रूते --धन्योऽसि मन्थर ! सर्वथा आश्रयणीयोऽसि । यतः -- सन्त एव सतां नित्यमापद्-उद्धरण-क्षमाः । गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ॥ १८२ ॥ अपरं च -- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्-पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥ १८३ ॥ तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर्न कोऽप्यवलम्बितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं --भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम् । चित्राङ्गो ब्रूते --लुब्धक-त्रासितोऽहं भवतां शरणमागतः । ततश्च, भवद्भिः सह मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः -- लोभाद् वाथ भयाद् वापि यस्त्यजेच्छरणागतम् । ब्रह्म-हत्या-समं तस्य पापमाहुर्मनीषिणः ॥ १८४ ॥ हिरण्यकोऽप्यवदत् --मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः -- औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् । रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्-विधम् ॥ १८५ ॥ तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच्छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायामुपविष्टः । अथ मन्थरो ब्रूते --सखे मृग ! केन त्रासितोऽसि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति ? मृगेणोक्तम् --अस्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यमिति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकमित्यालोच्य यथा कार्यं तथा आरभ्यताम् । तच्छ्रुत्वा कूर्मः स-भयमाह --मित्र ! जलाशयान्तरं गच्छामि । काक-मृगावपि उक्तवन्तौ --मित्र ! एवमस्तु ! हिरण्यको विमृश्याब्रवीत् --पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा ? अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् । स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ १८६ ॥ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पमघातयत् ॥ १८७ ॥ तद् यथाऽ कथा ६ अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते, तदास्माकमेतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस्तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता । मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच --देव ! दृष्टि-प्रसादं कुरु । हस्ती ब्रूते --कस्त्वम् ? कुतः समायातः ? सोऽवदत् --जम्बुकोऽहं सर्वैर्वन-वासिभिः पशुभिर्मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्ये --भिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः -- कुलाचार-जनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ॥ १८८ ॥ अपरं च पश्य -- राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । राजन्यसति लोके --स्मिन् कुतो भार्या कुतो धनम् ॥ १८९ ॥ अन्यच्च -- पर्जन्य इव भूतानामाधारः पृथिवी-पतिः । विकले --पि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १९० ॥ किं च -- नियत-विषय-वर्ती प्रायशो दण्ड-योगाज् जगति पर-वशे --स्मिन् दुर्लभः साधु-वृत्तेः । कृशमपि विकलं वा व्याधितं वाधनं वा पतिमपि कुल-नारी दण्ड-भीत्याभ्युपैति ॥ १९१ ॥ तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पङ्के निमग्नः । हस्तिनोक्तम् --सखे शृगाल ! किमधुना विधेयम् ? महा-पङ्के पतितोऽहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम् --देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलमेतत् । तद् अनुभूयतामशरणं दुःखम् । तथा चोक्तम् -- यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि । यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ॥ १९२ ॥ ततो महा-पङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमि --उपायेन हि यच्छक्यमित्यादि । ततस्तद्-धित-वचनमवधीर्य महता भयेन विमुग्ध इव मन्थरस्स्तज्-जलाशयमुत्सृज्य प्रचलितः । ते --पि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति -- एकस्य दुःखस्य न यावद् अन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुली-भवन्ति ॥ १९३ ॥ स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्-अकृत्रिम-सौहार्दमापत्स्वपि न मुञ्चति ॥ १९४ ॥ अपि च -- न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ १९५ ॥ इति मुहुः विचिन्त्य प्राह --अहो मे दुर्दैवम् । यतः -- स्व-कर्म-सन्तान-विचेष्टितानि कालान्तरावर्ति-शुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ १९६ ॥ अथवा इत्थमेवैतत् । कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ १९७ ॥ पुनर्विमृश्याह -- शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षर-द्वयम् ॥ १९८ ॥ किं च -- मित्रं प्रीति-रसायनं नयनयोरानन्दनं चेतसः पात्रं यत् सुख-दुःखयोः सममिदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धि-समये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत् ॥ १९९ ॥ इति बहु विलप्य हिरण्यकश्चित्राङ्ग-लघुपतनकावाह --यावद् अयं व्याधो वनान् न निःसरति, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् । तावूचतुः --सत्वरं यथा-कार्यमुपदिश । हिरण्यको ब्रूते --चित्राङ्गो जल-समीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश्चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्ताद् उपविष्टः सन् तथाविधं मृगमपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकामादाय प्रहृष्ट-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलमायाति तावत् कूर्ममपश्यन्न् अचिन्तयत् --उचितमेवैतत् ममासमीक्ष्य-कारिणः । यतः -- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ २०० ॥ ततोऽसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखमास्थिताः । अथ राज-पुत्रैः सानन्दमुक्तम् --सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णु-शर्मोवाच --एतद् भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु -- मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः । आस्तां मानस-तुष्टये सुकृतिनां नीतिर्नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्ध-चूडामणिः ॥ २०१ ॥त् किं व्याधाः सञ्चरन्ति ? मृगेणोक्तम् --अस्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यमिति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकमित्यालोच्य यथा कार्यं तथा आरभ्यताम् । तच्छ्रुत्वा कूर्मः स-भयमाह --मित्र ! जलाशयान्तरं गच्छामि । काक-मृगावपि उक्तवन्तौ --मित्र ! एवमस्तु ! हिरण्यको विमृश्याब्रवीत् --पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा ? अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् । स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ १८६ ॥ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पमघातयत् ॥ १८७ ॥ तद् यथाऽ कथा ६ अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते, तदास्माकमेतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस्तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता । मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच --देव ! दृष्टि-प्रसादं कुरु । हस्ती ब्रूते --कस्त्वम् ? कुतः समायातः ? सोऽवदत् --जम्बुकोऽहं सर्वैर्वन-वासिभिः पशुभिर्मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्ये --भिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः -- कुलाचार-जनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ॥ १८८ ॥ अपरं च पश्य -- राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । राजन्यसति लोके --स्मिन् कुतो भार्या कुतो धनम् ॥ १८९ ॥ अन्यच्च -- पर्जन्य इव भूतानामाधारः पृथिवी-पतिः । विकले --पि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १९० ॥ किं च -- नियत-विषय-वर्ती प्रायशो दण्ड-योगाज् जगति पर-वशे --स्मिन् दुर्लभः साधु-वृत्तेः । कृशमपि विकलं वा व्याधितं वाधनं वा पतिमपि कुल-नारी दण्ड-भीत्याभ्युपैति ॥ १९१ ॥ तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पङ्के निमग्नः । हस्तिनोक्तम् --सखे शृगाल ! किमधुना विधेयम् ? महा-पङ्के पतितोऽहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम् --देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलमेतत् । तद् अनुभूयतामशरणं दुःखम् । तथा चोक्तम् -- यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि । यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ॥ १९२ ॥ ततो महा-पङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमि --उपायेन हि यच्छक्यमित्यादि । ततस्तद्-धित-वचनमवधीर्य महता भयेन विमुग्ध इव मन्थरस्स्तज्-जलाशयमुत्सृज्य प्रचलितः । ते --पि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति -- एकस्य दुःखस्य न यावद् अन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुली-भवन्ति ॥ १९३ ॥ स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्-अकृत्रिम-सौहार्दमापत्स्वपि न मुञ्चति ॥ १९४ ॥ अपि च -- न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ १९५ ॥ इति मुहुः विचिन्त्य प्राह --अहो मे दुर्दैवम् । यतः -- स्व-कर्म-सन्तान-विचेष्टितानि कालान्तरावर्ति-शुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ १९६ ॥ अथवा इत्थमेवैतत् । कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ १९७ ॥ पुनर्विमृश्याह -- शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षर-द्वयम् ॥ १९८ ॥ किं च -- मित्रं प्रीति-रसायनं नयनयोरानन्दनं चेतसः पात्रं यत् सुख-दुःखयोः सममिदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धि-समये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत् ॥ १९९ ॥ इति बहु विलप्य हिरण्यकश्चित्राङ्ग-लघुपतनकावाह --यावद् अयं व्याधो वनान् न निःसरति, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् । तावूचतुः --सत्वरं यथा-कार्यमुपदिश । हिरण्यको ब्रूते --चित्राङ्गो जल-समीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश्चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्ताद् उपविष्टः सन् तथाविधं मृगमपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकामादाय प्रहृष्ट-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलमायाति तावत् कूर्ममपश्यन्न् अचिन्तयत् --उचितमेवैतत् ममासमीक्ष्य-कारिणः । यतः -- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ २०० ॥ ततोऽसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखमास्थिताः । अथ राज-पुत्रैः सानन्दमुक्तम् --सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णु-शर्मोवाच --एतद् भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु -- मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः । आस्तां मानस-तुष्टये सुकृतिनां नीतिर्नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्ध-चूडामणिः ॥ २०१ ॥







धर्मार्थ. वार्ता समाधान. में सप्रेम समर्पित
पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830
से.1वाशी नवी मुम्बई
8828347830
No comments:
Post a Comment