Thursday, February 11, 2016

हरि ॐ तत्सत्! सुप्रभातम्।
सर्वेभ्यो भक्तेभ्यो देवभाषारसरसिकेभ्यश्च नमो नमः। 🙏🌺🙏

☀सच्चर्चा☀
महापुरुषाः कथयन्ति, अस्मिन् संसारे ये साधकाः निष्कामभावनया सदा कर्त्तव्यानि कर्माणि कुर्वन्ति, ते कदाप्यपि नश्वरं संसारं प्रति विमोहिताः न भवन्ति।
ये बुधाः मनुष्याः कार्ययोजनां निष्ठामाधाय सम्पादयन्ति, ते कदापि फलासक्तिं प्रति न चिन्तयन्ति मुह्यन्ति च।
☀सत्यसनातनधर्मो विजयतेतराम्☀
🌺अमरवाणी विजयताम्🌺

No comments:

Post a Comment