Friday, January 20, 2017

हरि ॐ तत्सत्! सुप्रभातम्।

हरि ॐ तत्सत्!  सुप्रभातम्।
मदीयं सौभाग्यं स्यात्। यत्पुनः अस्मिन्  पवित्रगणे सेवप्रदानं  कर्तुम्  अवसरः  प्राप्तः। नमस्सर्वेभ्यः।🙏�🌺🙏

भगवदनुग्रहात्सर्वे  सत्परुषाः  सत्कर्म कुर्वन्तः  स्व-मानवजीवनं  सार्थकं  कुर्वन्तु।

श्रीमद्भगवतेSपि  वर्णितम् --

*अहो  अमीषां  किमकारि शोभनं  प्रसन्न एषां  स्विदुत स्वयं  हरिः ।*
*यैर्जन्म लब्धं  नृषु भारताजिरे  मुकुन्दसेवौपयिकं  स्पृहा  हि  नः ॥*
(५/११/२१)

देवाः  प्रमुदितमनसा  गायन्ति- अहो , एते भूलोकनिवासिनः  मनुष्याः  सौभाग्यशालिनः सन्ति, ये सर्वे भगवत्कृपापात्राः प्रतीयन्ते, यतोहि  इमे भारतपावनभूमौ  भगवत्सेवाकर्तुमेव मानवजीवनं लब्धवन्तः। एतेषां मनुष्याणां परमसौभाग्यं वर्तते। वयं देवा एतत्सौभाग्येन वञ्चिताः स्मः।

॥ सत्यसनातनधर्मो विजयतेतराम् ॥

2 comments: