Monday, January 11, 2016

|| हरिः ॐ तत्सत्! सुप्रभातम् ||


     
हरिः ॐ तत्सत्!  सुप्रभातम्।
सर्वेभ्यो भक्तेभ्यो देवभाषारसरसिकेभ्यश्च नमो नमः। 
☀सच्चर्चा☀
अस्माकं महापुरुषा उपदिशन्ति, यद्भगवत्प्राप्तौ भावस्य प्राधन्यं वर्तते न तु क्रियादीनाम्।
यथा श्रीरामचरितमानसेSपि- उत्तरकाण्डे वर्णितम्......
"मिलहिं न रघुपति बिनु अनुरागा।
किएँ जोग तप ज्ञान बिरागा॥"
(दो०-६१/चौ०-१)
सर्वे सज्जनाः विचारयन्तु......
परमात्वतत्त्वस्य यथार्थमनुभूतिः तदा भवितुमर्हति, यथा...
" विषयभोग निद्रा हँसी जगतप्रीति बहु बात"  इत्यनुसारेण
सत्सङ्गप्रभावादेतान् पञ्चविकारान् प्रति हृदये  सहजैवारुचिः भविष्यति तदा भगवत्प्राप्तौ विलम्बो न भविष्यति।
☀सत्यसनातनधर्मो विजयतेतराम्☀
अमरवाणी विजयताम्


पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830 

No comments:

Post a Comment