सत्संगविहीना: मनुष्या: अन्धकूपे पतन्ति
-----------------------------
-----------------------------
एकस्मिन् दिने सायं कस्मिँश्चित् क्रीडाक्षेत्रे पठितारो
बालकाः पादकन्दुकं क्रीडन्ति स्म। तदानीं ततः गच्छन्तः केचित् साधवो जनाः
तान् बालकान् सहसापश्यन्। ते सर्वे धर्मशास्त्रज्ञानसम्पन्नाः आसन्। तदा ते
परस्परं पृष्टवन्तः। वदन्तु सर्वे अत्राध्यात्मदृष्ट्या किं यथार्थं
चिन्तनं भवेयुः। तेषां मध्ये एकः परमहंसः साधुः आसीत्। तेनोक्तम् यदिदं
कन्दुकमहङ्कारवायुपरिपूर्णं वर्तते। अस्मात् कारणात् बालकैः पादप्रहारैः
तिरस्कृतं भूत्वा यत्र-तत्र-धावति कूर्दति च। अनेनैव सत्सङ्गविहीनाः
भौतिकवादिनो मनुष्याः मिथ्याभिमानेन ग्रस्तीभूत्वा यत्र-तत्र पादकन्दुकमिव
धावन्ति कूर्दन्ति च अन्ते ते अन्धकूपे पतित्वा पञ्चत्वे विलीयन्ते
निर्मिलीयन्ते च।
–जय श्रीमन्नारायण।
पं मंगलेश्वर त्रिपाठी
वाशी से.1नवी मुम्बई |
8828347830
No comments:
Post a Comment