Monday, May 2, 2016

पत्नि विरह

!! पत्नि विरह !!
प्रेषितं न किञ्चित् सन्देशम् 
हा गतः प्रियतमः विदेशम् ।।
खण्डितं तु सप्तपञ्च वचनानुबन्धं
कस्यचिदागच्छति षडयन्त्रस्यगन्धं ।
दृश्यते ह्रदि अपरा प्रवेशम् ।
हा गतः प्रियतमः विदेशम् ।।
रोचते न तेन बिना शुष्क शुष्क दिवसः
निशा भवति भयावहा क्रमश;क्रमशः
कष्टकरं सर्वं परिवेशम् ।
हा गतः प्रियतमः विदेशम् ।।
श्रूयते तु अहर्निशं स्वासुः अपशब्दं 
दैनिकोपियोगि वस्तु अस्ति नोपलब्धं
रोचते न स्वशुरोपदेशम् ।
हा गतः प्रियतमः विदेशम् ।।
वैरी प्रत्यागतो न भवति एक-मासः
आगतं न पत्रं न कृतं दूरभाषः
प्रेषितं च नैव धनादेशम् ।
हा गतः प्रियतमः विदेशम् ।।
न जानेप्यहं तेन त्यक्ता किमर्थम् 
अधुनाहं थकितास्मि पथ दर्शं-दर्शं
किमर्थं ददाति ह्रदय क्लेशम् ।
हा गतः प्रियतमः विदेशम् ।।

No comments:

Post a Comment